Class 9 Sanskrit Chapter 3 Godohanam Questions Answer

Class 9 Sanskrit Chapter 3 पाठ्यपुस्तक के प्रश्नोत्तर

Class 9 Sanskrit Chapter 3 Godohanam Questions Answer तृतीयः पाठः गोदोहनम् (गाय का दूध दुहना)

पाठ परिचय- यह नाट्यांश कृष्णचन्द्र त्रिपाठी महोदय द्वारा रचित ‘चतुव्र्यूहम्’ नामक पुस्तक से संक्षिप्त करके  और सम्पादित करके उद्धृत किया गया है । इस नाटक में एक ऐसे व्यक्ति का कथानक है जो धनवान् और सुखी बनने की इच्छा से अपनी गाय से एक महीने तक दूध निकालना बन्द कर देता है, जिससे महीने के अन्त में गाय के शरीर में एकत्रित हुए पर्याप्त दूध को एक बार में ही बेचकर धनवान् बन सके।

परन्तु महीने के अन्त में जब वह गाय को दुहने का प्रयास करता है तब उसे दूध  की एक बून्द भी प्राप्त नहीं होती है। एक साथ दूध के स्थान पर वह गाय के प्रहारों से रक्तरञ्जित हो जाता है,  और वह समझ जाता है कि दैनिक कार्य को यदि महीने  भर तक इकट्ठा करके किया जाता है तो  उससे लाभ के स्थान पर हानि ही होती है। अतः हमें सदैव अपने सभी कार्य यथासमय करने के लिए प्रयत्नशील रहना चाहिए।

Read Also- Class 9 Sanskrit Chapter 3 Godohanam Hindi translation तृतीयः पाठः गोदोहनम् (गाय का दूध दुहना) Click Here

Class 9 Sanskrit Chapter 3 Godohanam Questions Answer

प्रश्न 1. एकपदेन उत्तरं लिखत-

(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?

उत्तरम्- काशीविश्वनाथमन्दिरम्।

(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?

उत्तरम्- त्रिशतसेटकमितम्।

(ग) कुम्भकार: घटान् किमर्थं रचयति?

उत्तरम्- जीविकाहेतोः।

(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?

उत्तरम्- मोदकानि।

(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?

उत्तरम्- चन्दनः।

प्रश्न 2. पूर्णवाक्येन उत्तरं लिखत-

(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?

उत्तरम्- मल्लिका चन्दनश्च मासपर्यन्तं धेनोः दुग्धदोहनं विहाय  तस्याः सेवाम् अकुरुताम्।

(ख) कालः कस्य रसं पिबति?

उत्तरम्- काल: क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्त्तव्यस्य च कर्मणः रसं पिबति।

(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकार: किं वदति?

उत्तरम्- घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकार: वदति यत् “पत्रिके! नाहं पापकर्म करोमि। कथमपि, नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान घटान् । दुग्धं विक्रीय एव घटमूल्यं ददातु।”

(घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविक कारणं ज्ञातम्?

उत्तरम्- मल्लिकया दृष्टम् यत् ताभ्यां मासपर्यन्तं धेनोः दोहनं न कृतम्, येन सा पीडाम् अनुभवति, अत एव सा ताडयति।

(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?

उत्तरम- मासान्ते त्रिशत-सेटकपरिमितं दुग्ध प्राप्तुं तेन च विक्रीय धनिकः भवितुं चन्दनः मासपर्यन्तं धेनोः दोहनं न करोति।

प्रश्न 3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) मल्लिका सखिभिः सह धर्मयात्रायै गच्छति स्म।

(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम अकरोत्।

(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।

(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।

(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।

उत्तरम्- प्रश्ननिर्माणम्

(क) मल्लिका काभि सह धर्मयात्रायै गच्छति स्म? |

(ख) चन्दन: दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत?

(ग) कानि पूजानिमित्तानि रचितानि आसन्?

(घ) मल्लिका स्वपतिं कीदशं मन्यते?

(ङ) का पादाभ्यां ताडयित्वाचन्दनं रक्तरञ्जितं करोति? ।

प्रश्न 4. मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत-

गृहव्यवस्थायै,   उत्पादयेत्,  समर्थकः,  धर्मयात्रायाः,  मङ्गलकामनाम्,  कल्याणकारिणः

यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति ………………….  विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं  ……………….  कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ……………. कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् …………….. भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न …………………. । एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः आसीत्।

उत्तरम्- यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति धर्मयात्रायाः विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं गृहव्यवस्थायै कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्या: यात्रायाः कृते मङ्गलकामनाम् कुर्वन् कथयति यत् तव मार्गाः शिवा: अर्थात कल्याणकारिणः भवन्तु। मार्गे काचिदपि बाधा: तवं कृते समस्यां न उत्पादयेत्। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः समर्थकः आसीत्।

प्रश्न 5. घटनाक्रमानुसारं लिखत-

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।

(ख) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।

(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।

(घ) मल्लिका पूजार्थं मोदकानि रचयति।

(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।

(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तं मासपर्यन्त दोहनं न करोति।

(ज) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति ।

उत्तरम्- घटनाक्रमानुसारं वाक्यानि-

(घ) मल्लिका पूजार्थं मोदकानि रचयति।

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।

(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।

(ज) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति ।

(ख) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।

(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तं मासपर्यन्त दोहनं न करोति।

(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।

(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

प्रश्न 6. अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत-

उदाहरणम् –  स्वामिन्! प्रत्यागता अहम्। आस्वादय प्रसादम्।

क:/का   कं/काम्  –  मल्लिका चन्दनं प्रति

उत्तरम्

(क) उमा चन्दनं प्रति।।

(ख) चन्दनः उमां प्रति।

(ग) चन्दन: देवेशं प्रति/कुम्भकारं प्रति।

(घ) देवेश: मल्लिकां प्रति ।

(ङ) चन्दनः मल्लिकां प्रति ।

प्रश्न 7. पाठस्य आधारेण प्रदत्तपदानां सन्धिं/सन्धिच्छेदं वा कुरुत-

(क) शिवास्ते …………..

(ख) मनः हरः ………….

(ग) सप्ताहान्ते …………..

(घ) नेच्छामि  ……………

(ङ) अत्युत्तमः ………….

उत्तरम्-

(क) शिवाः + ते

(ख) मनोहरः

(ग) सप्ताह + अन्ते

(घ) न  + इच्छामि

(ङ) अति + उत्तमः।

(अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत-

(क) करणीयम्

(ख) वि + क्री +  ल्पय्

(ग) पठितम्

(घ) ताडय् + क्त्वा

(ङ) दोग्धुम्

उत्तरम्-

(क) कृ + अनीयर्

(ख) विक्रीय

(ग) पठ् + क्त

(घ) ताडयित्वा

(ङ) दुह् + तुमुन्।

Class 9 Sanskrit Chapter 3 Godohanam Question Answer अन्य महत्त्वपूर्ण प्रश्नोत्तर

लघूत्तरात्मक प्रश्न

प्रश्न 1. मल्लिका मोदकानि रचयन्ती किं करोति?

उत्तरम्- मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुति करोति।

प्रश्न 2. चन्दनः कानि दृष्ट्वा जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्ति?

उत्तरम्- चन्दनः स्वपल्याः हस्तनिर्मितानि मोदकानि दृष्ट्वा जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्ति।

प्रश्न 3. मल्लिका स्वसखिभिः सह काश्यां किमर्थं गन्तुमिच्छति?

उत्तरम्- मल्लिका स्वसखिभिः सह काश्यां गङ्गास्नानाय धर्मयात्रार्थं च गन्तुमिच्छति स्म।

प्रश्न 4. ते पन्थानः कीदृशाः सन्तु?

उत्तरम्- ते पन्थानः शिवाः सन्तु ।

प्रश्न 5. चन्दनः स्त्रीवेषं धत्वा कत्र गच्छति?

उत्तरम्- चन्दनः स्त्रीवेषं धृत्वा नन्दिन्याः धेनो: समीपं गच्छति।

प्रश्न 6. कस्य गृहे मासानन्तरं महोत्सवः आसीत्?

उत्तरम्- ग्रामप्रमुखस्य गृहे मासानन्तरं महोत्सवः आसीत्।  

प्रश्न 7. चन्दनः कदा सम्पूर्णतया दुग्धदोहनं कर्तुमिच्छति?

उत्तरम्- चन्दनः मासान्ते एव सम्पूर्णतया दुग्धदोहनं कर्तुमिच्छति।

कथाक्रम/घटनाक्रम संयोजनम्

प्रश्न अधोलिखितक्रमरहितवाक्यानां घटनाक्रमानुसारेण संयोजनं कुरुत-

(i) नन्दिनी पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति।

(ii) सः दुग्धदोहनं विहाय नन्दिन्याः सेवां करोति।

(iii) मल्लिका स्वसखिभिः सह काशीविश्वनाथमन्दिरं प्रति गच्छति।

(iv) दिनस्य कार्य तस्मिन्नेव दिने कर्त्तव्यम।

(v) महोत्सवे त्रिशत-सेटकमितस्य दुग्धस्य व्यवस्था चन्दनेन करणीया।

(vi) चन्दन: उत्सवदिने एव समग्रं दुग्धदोहनं कर्तुमिच्छति।

(vii) मायाः पितामहस्य गृहे मासान्ते महोत्सवः भविष्यति ।

(viii) मासान्ते चन्दनः धेनोः समीपं गत्वा दोग्धुं प्रयास करोति।

उत्तरम्- वाक्य-संयोजनम्

(iii) मल्लिका स्वसखिभिः सह काशीविश्वनाथमन्दिरं प्रति गच्छति।

(vii) मायाः पितामहस्य गृहे मासान्ते महोत्सवः भविष्यति ।

(v) महोत्सवे त्रिशत-सेटकमितस्य दुग्धस्य व्यवस्था चन्दनेन करणीया।

(vi) चन्दन: उत्सवदिने एव समग्रं दुग्धदोहनं कर्तुमिच्छति।

(ii) सः दुग्धदोहनं विहाय नन्दिन्याः सेवां करोति।

(viii) मासान्ते चन्दनः धेनोः समीपं गत्वा दोग्धुं प्रयास करोति।

(i) नन्दिनी पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति।

(iv) दिनस्य कार्य तस्मिन्नेव दिने कर्त्तव्यम।

Leave a Comment

error: Content is protected !!